प्राकृतिकेन पाथेयेन परिपुष्टाः पशवः पक्षिणश्च मानवायोत्पतनप्रेरणाप्रदातरो मन्यन्ते । प्रत्येकं पशोः पक्षिणो वा गतौ काचन विचित्रा मनोमोहिनो प्लवनपद्धतिः परिदृश्यते । अनुकरणानुरागी मानव आत्मनो हितं साधयितुं कामयमानो यथाकथमपि पुरा कूर्दनं कुरुते स्म । तस्य बुद्धिवैशध्येनोत्पतन्कलाया अपि विस्तारः समजायत । पूर्वं दर्शितयोः कूर्दनयोः प्रलम्बकूर्दनम् उन्नतकूर्दनं च संयोज्य त्रिः कूर्दनविधेः सर्जनं विहितम् ।
विश्वक्रीडोत्सवेषु नियमितरुपेण यानि कूर्दनविधानानि प्रदर्श्यन्ते तेषु त्रिः कूर्दन (Triple jump,HOP-STEP AND JUMP) स्यापि महत्त्वपूर्ण स्थानं विध्यते । सन् १८६६ वत्सरात् १६०४ वर्षपर्यन्तं विश्वस्य नेतृत्वं विदधताऽमरीकादेशेन त्रिः कूर्दनपद्धतौ विश्वविजेतृत्वमपि नैरन्तर्येण प्राप्तम् । तदनन्तरं ब्रिटेनास्ट्रेलिया जापान्-ब्राजील्-रुसदेशैरपि विश्वविजेतृत्वं क्रमेणाधिगतम् । विजेतृषु १. ई.वी.ब्लोस २ -डान अहरन् ३-लेवी कैसे ४-रोमेरो ५ विलीब्राउन ६-तेजीना ७-डिसीलवा *-विक्टर सतीव -प्रभृतीनां नामानि स्मरणीयानि सन्ति । अन्तिमेन विजेत्रा ५७’ ३,४" (१७.३६ मीटर) मितां प्रलम्बतामुल्लङ्घय् विश्वकीर्तिमानं स्थापितभूत ।
प्रलम्बकूर्दनवदेव त्रिःकूर्दनप्रक्रियाऽपि धावनादेव प्रारभ्यते । परमस्या इदं वैशिष्टय् विद्यते यदस्यां त्रीण्युच्छलनानि विधीयन्ते । येषु १. उच्छलनं, २. चरणक्रमणं (एकेन चरणेन) तथा ३. कूर्दनं (अन्येन चरणेन) समाविशन्ति ।
अस्मिन् कूर्दने पदयोः शक्तिशालित्वमत्यावश्यकमस्ति । शरीरस्य स्फूर्तिमत्त्वं लघुत्वं चोच्छलनविधौ साहाय्यं विदधतः त्रिः कूर्दनस्य प्रक्रियाया आविष्कारः पोलेण्ड-रुस्-देशाभ्यां विहित आसीत् । पोलेण्डद्वाराऽऽविष्कृतस्य विधेर्नाम " समतलोच्छलनं" तथा रुस-द्वारा प्रदारितस्य विधेर्नाम ‘उन्नतोच्छलन’मस्ति । पोलेण्डवासिन उच्छलनस्य कोणं १४-१५ कुर्वन्ति रुसदेशवासिनश्च १५-१८ कोणं निर्मन्ति । एको नवीनो विधिश्च ‘नेताजी सुभाष खेल् कूद संस्थान -पटियाल’ स्थेन विश्वविख्यातेन प्रशिक्षकेन श्री-सी.एम मुथाइया - द्वारा प्रचलितोऽस्ति यो ह्यनयोरुभयोरपि विध्योर्मध्यवर्ती विधिर्मन्यते । अस्मिन् कूर्दनस्य कलाऽतीव विकसिता । अस्योच्छलनकोणः १५-१६ मानमितो भवति । एकस्योत्तमकूर्दकस्योत्पतन-चरणक्रमण-कूर्दनानां प्रलम्बता योगस्तस्याधिकतम-प्रलम्बकूर्दनस्य दूरतायास्त्रिगुणितस्य ७५ प्रतिशतं भवति । त्रि कूर्दको द्वाभ्यां चरणाभ्यां समानदूरताकूर्दको भवति अन्तरं च केवलं द्वयोश्चरणयोरुल्लङ्घनेऽधिकाधिके ५६ सें मीं मिते भवतः
अस्य विधेः समुन्नत्यै (क) धावनमार्गः, (ख) उच्छलनं, (ग) चरण-क्र्मणं तथा (घ) कूदनं चेति चत्वारो विभागाः समाद्रियन्ते । तत्र हि-
दृष्ट्या प्रलम्बकूर्दनवदेवास्य धावनमार्गोऽपि ३०-३५ फीट (अथवा २० पदान्तर) मितो भवति तथा तद्वदेव परीक्षणचिह्नानि दीयन्ते । तत्रान्तरं केवलमिदमेवास्ति यत् तत्राच्छलनबिन्दोः पूर्वं द्वित्राणि चरणक्रमणानि शरीरस्य मुखस्य च व्यवस्थायै विधीयन्तेऽत्र च त्रिःकूर्दने मस्तिष्कस्य सन्तुलनसिद्धयै तान्युपयुज्यन्ते ।
दृष्ट्याऽस्मिन् विभागे समुच्छलनसमयेऽन्तिमानि चरणक्रमणानि न तु समन्नतकूर्दनवत् प्रलम्बानि क्रियन्ते न वा प्रलम्बकूर्दनवद लधुनि विधीयन्तेऽपि तूच्छलने कूर्दका औन्न्त्यं न्यूनं कुर्वन्तो वेगं यथावत् स्थिरयन्ति । धावनस्य गतिः प्रलम्बकूर्दनादेव भवति । उत्पतनारम्भे पादस्य तलं पूर्वं तथा पार्ष्णिः पश्चादुच्छलनबिन्दावागच्छतः । एतस्मिन् स्वतन्त्त्रः पादः पूर्वरुपेणाग्रे गत्वाऽग्रतो निम्नभागं प्रत्यागत्य समग्रः पृष्ठे व्रजति तथोच्छलनशीलः पादः पृष्ठत ऊर्ध्वभागं प्रति लघुना मार्गेण पुर आयाति ततः परं चक्रवदागत्या निम्नभागं प्रति समागत्यसेवगं पृथ्व्या सङ्घट्टते । तदानीं पादः पृथ्व्यां शक्तिपूर्वकं न निपात्यते प्रात्युत सहजभावेन पार्ष्णि-पदतलयोगेन पृथ्व्यामवतीर्यते । एतेनोत्पतिष्णोर्गतिर्न ह्रसति ।
दृष्ट्याऽत्र च कूर्दकस्योच्छलनकारिणि चरणे पर्याप्तं भारो भवति अतो जानोर्वलनस्य कोणः ६० मानाद न्यूनो न भवेदिति ध्येयम् । अत्रोदरस्य शक्तिशालिन्यो मांसपेश्यः कार्यं कुर्वन्ति तथा द्वयोर्हस्तयोत्पतनवदुच्छलनक्रियया सह स्वतन्त्रः पादः पुरतो वेगेन सह पार्ष्णिभागेन भूमिं स्पृशति तथा सहैव पादतलं पृथ्वीं स्पृशति पार्ष्णिश्चोत्तिष्ठति । एवंविधेन पादसञ्चारेण धावने स्फूर्तिर्वर्धते कूर्दने च साहाय्यं लभ्यते ।
दृष्ट्या त्रिः कूर्दनमपि प्रलम्बकूर्दनवदेव वायौ स्थित्या समाप्नोति परमस्त्यत्रेदमन्तरं यदत्र समुच्छलनकोणः १६ २० मितो भवति यर्हि प्रलम्बकूर्दने ३० ३५ मितः
यस्य कस्यापि कार्यस्य सफलतायै केचन सिद्धान्ता निश्चिता भवन्ति यानाधृत्य जनः प्रतिपदं साफल्यमेव वृणुते । अनथैव दृष्ट्या त्रिः कूर्दन-कलायां साफल्यावाप्तये निम्नलिखिता अष्टौ सिद्धान्ता निर्धारिताः सन्ति -
किञ्च कूर्दकेनेयान् तलीयो वेगः समुत्पादनीयो भवति योऽन्तिमकूर्दनाय पर्याप्तः स्यात् । उत्तमायै गतये हस्तयोर्गतिः क्रमेणेत्थं भवति - १. उच्छलने क्रमशः, २. पदसञ्चरणे द्विगुणिता द्वयोरपि हस्तयोर्युगपत, ३. कूर्दनकाले च क्रमशः । उच्छलनकाले गतिव्यवस्था यथाययं विधेया । वायौ शरीरस्य स्थितिरपि समयानुसारं विवेकेन निश्चेतव्या ।
प्राय एवं प्रतीयते यत् कूर्दकानां धाव्नसमये प्रलम्बधावनशीघ्रगतिवृद्धि समुच्छलनाभ्यासन्यूनतानां कारणादन्तिमे चरणक्रमणे गताववरोधो भवति तदर्थं लघुधावनद्वारा समुच्छलनाभ्यास आवश्यकः । अथ चान्तिमचरणक्रमणस्य लघुतादीर्घतासम्पादनकारणाद् गतेह्रासोऽपि भवति तत्कृते प्रलम्बायामतस्तथा लध्वायामत उच्छलनप्रयासा अधिकाधिकं विधेयतामर्हन्ति । उच्छलनकाले चरणसङ्क्रमणावधौ कूदनसमये तथा भूमाववतरणसमयेऽपि ये ये दोषा भवन्ति न्यूनताश्चागच्छन्ति तासां निवारणाय विधिज्ञानपूर्वकं निरन्तराभ्यास कर्तव्यपदवीमारोहति ।
इयं त्रिः कूर्दनकला कैश्चिचन्यैरपि प्रकारविशेषैः स्वास्थ्यसंरक्षणाय संवर्धनाय च प्रगतिमती सती भूरिशः ‘प्रशस्ता सञ्जाता । साम्प्रत्तं सर्वेष्वपि क्रीडामहोत्सवेष्वस्याः समाद्र एव च लोकप्रियतां प्रतिपादयति ।
अभिनवक्रीडातरङ्गिणी