पुदुचेरी पुदुचेरी | |
---|---|
राजधानी | |
भारती पार्क् इत्यत्र विद्यमानम् आयीमण्डपम् | |
देशः | भारतम् |
केन्द्रशासितप्रदेशः | पुदुचेरी |
मण्डलम् | पुदुच्चेरीमण्डलम् |
स्थापना | १६७३ |
Elevation | ३ m |
Population (2011) | |
• Total | ६५४,३९२ |
• Density | ९,१६६/km२ |
भाषाः तमिळ्, तेलुगु, मलयाळम् | |
Time zone | UTC+५:३० (भारतीयमानकसमयः) |
पोस्टल् इंडेक्स् संख्या |
605001-605014 |
Telephone code | 91 (0)413 |
Vehicle registration | PY-01 |
पुदिचेर्याः इतिहासः दितीयशतकात् लभ्यते । द्वितीयशतकस्य आदिमभागे रचिते पेरिप्लस् आफ् दि एरिथ्रीन् सी (प्राचीनः ग्रीकग्रन्थः)ग्रन्थे पोदुकु नामिका विपणिः उल्लिख्यते (६० अध्यायाः) । इदम् आधुनिकपुदुचेरीतः २ मैल्दूरे विद्यमानम् अरिकमेडु (अधुना अरियङ्कुप्पमस्य भागः) स्यात् इति ऊह्यते हण्टिङ्ग्फोर्डेन । अस्मिन् अरिकमेडुप्रदेशे १९३७ तमे वर्षे रोमन्-कुम्भनिर्माणकार्यं (पाटरि) दृष्टम् । १९४४ तः १९४९ पर्यन्तं जातैः पुरातत्त्वशोधनैः ज्ञातं यत् 'इदं वाणिज्यक्षेत्रम् आसीत् यत्र रोमन्देशस्य वस्तूनां वाणिज्यं प्रथमशतकस्य उत्तरार्धे प्रचलति स्म इति ।
अद्यत्वे अपि पुदुचेर्यां फ्रेञ्चप्रभावः दृष्टिगोचरः भवति । पुदुचेर्याः विन्यासः फ्रेञ्चविन्यासवत् विद्यते । नगरं द्विधा विभक्तं - फ्रेञ्च्-भागः (श्वेतनगरम्) भारतभागः (कृष्णनगरम्) च । बहूनां मार्गाणां नामानि फ्रेञ्च्-नामानि एव सन्ति । गृहाणि अपि फ्रेञ्चविन्यासयुक्तानि एव । फ्रेञ्चभागे भवनानि दीर्घप्राङ्गणयुक्तानि शोभायुताभिः भित्तिभिः युक्तानि च । भारतभागे गृहाणि वितर्दिभिः युक्तानि महाद्वारैः युक्तानि भवन्ति । 'भारतीय राष्ट्रीय कला एवं सांस्कृतिक धरोहर न्यास' संस्थया फ्रेञ्च्-शैलीयानि भारतशैलीयानि भवनानि अभिज्ञाय तेषां रक्षणं क्रियते । फ्रान्सीसीभाषायाः उपयोगः अद्यत्वे अपि पुदुचेर्यां दृश्यते ।
१९५४ तमे वर्षे पाण्डीचेरीप्रदेशः यदा भारतं प्रति हस्तान्तरितः तदा तत्रत्याः जनाः भारतीयपौराः भवितुं वा फ्रेञ्चपौरत्वं रक्षितुं वा स्वतन्त्राः आसन् । अतः अद्यत्वे अपि अत्र केचन दृश्यन्ते ये फ्रेञ्च्पौराः । फ्रेञ्चसांस्कृतिकसंस्थाः बहवः सन्ति । फ्रेञ्चयुद्धेषु भागम् ऊढवतां सैनिकानां कृते स्मारकमन्दिरं निर्मितम् अस्ति । फ्रेञ्चमाध्यमविद्यालयः अपि अत्र विद्यते ।
अगस्त्यमुनेः आश्रमः यत्रासीत् तत्रैव अरविन्दयोगिनः आश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरविन्दयोगिनः स्मारकम् अस्ति । महर्षिः अरविन्दः कविः संन्यासी च आसीत् । देशविदेशे च नैके भक्ताः अरविन्दमहर्षेः उपदेशेन प्रभाविताः सन्ति । सा.श.१९८० तमे वर्षे अरविन्दमहर्षिः समाधिस्यः अभवत् । पश्चात् मातापि प्रभावशालिनी आसीत् | सा एव आश्रमस्य व्यवस्थां निरवहत् । साऽपि सा.श.१९७३ तमे वर्षे दिवङ्गता ।
एतत् नगरं विश्वस्य १२४ देशानां प्रतिनिधीनां सन्दर्शनस्थानम् अस्ति । अत्र म्यूसियबोटानि कल्गार्डन् अरेकमड् प्राचीननौकास्थानम् इत्यादीनि सन्ति । मैत्रीमन्दिरम् इति आध्यात्मिकं केन्द्रम् अस्ति । विश्वस्य ५५० जनाः विनाभेदभावम् अत्र निवासन्ति । जलक्रीडास्थानं, चुन्नम्बार् , आनन्दरङ्गपिल्ले मन्दिरं (सा.श.१७७३) ,मनुकुल विनायगर् देवालयः, क्रैस्तप्रार्थनमन्दिराणि , इत्यादीनि आकर्षणीयानि सन्ति । वस्तुसङ्ग्रहालये टूप्ले प्रतिमा, ग्राण्ड् पियानो, शिलोत्कीर्णानि, प्राचीनवृक्षमूलं डूप्ले शय्या इत्यादयः अत्र सन्ति । वसति गृहणि अनेकानि सन्ति ।
चेन्नैतः १६२ कि.मी. । तिरुच्चीतः १९८ कि.मी. तञ्जावूरुतः १७० कि.मी. दूरे भवति ।
पाण्डिचेरी-विल्लुपुरमार्गः ३९ कि.मी. दूरम् ।