संस्कृतम् भाषाम् | |
---|---|
देवनागर्यांसंस्कृतम् | |
उच्चारणम् | ( शृणु) |
विस्तारः | भारतम् नेपाल जम्बुद्वीपः |
भाषाकुटुम्बः |
भारोपीयभाषाः
|
लिपिः |
देवनागिरी[१] ब्राह्मी |
आधिकारिकस्थितिः | |
व्यावहारिकभाषा | •हिमाचलप्रदेशराज्यम् •उत्तराखण्डराज्यम् |
नियन्त्रणम् | राजकीयनियन्त्रणं नास्ति। |
भाषा कोड् | |
ISO 639-1 | sa |
ISO 639-2 | san |
ISO 639-3 | san |
संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतम् भारतस्य जगत: वा भाषासु एकतमा प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिकाः भारतीयभाषाः उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिनीयाष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
इयं भाषा न केवलं भारतस्य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषा आसीत्। जना: संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषायाः इतिहासः कालो वा अतिप्राचीनः। उच्यते यत् इयं भाषा ब्रह्माण्डस्य आदि भाषा। अस्याश्च भाषायाः व्याकरणमपि अतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाजो वशिष्ठाय, वशिष्ठः ऋषिभ्यः इति संस्कृतभाषायाः उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्य आदिम: ग्रन्थ: ऋग्वेद: संस्कृतभाषायामेवास्ति। अन्ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्च संस्कृतभाषायामेव सन्ति। आयुर्वेद-धनुर्वेद-गन्धर्ववेदार्थवेदाख्या: चत्वार: उपवेदा: अपि संस्कृतेन एव विरचिता:॥
सर्वा: उपनिषद: संस्कृते उपनिबद्धाः । अन्ये ग्रन्था: – शिक्षा कल्प: निरुक्तं ज्यौतिषं छन्द: व्याकरणं दर्शनम् इतिहास: पुराणं काव्यं शास्त्रं चेत्यादयः ॥
महर्षि-पाणिनिना विरचित: अष्टाध्यायी इति संस्कृतव्याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
लिपिः वर्णादीनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत् | कालान्तरे एतस्य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्याम् आरब्धम् ।
अन्यरूपान्तराणि अधोनिर्दिष्टानि सन्ति –
असमीयालिपिः बाङ्गलालिपिः ओड़ियालिपिः शारदालिपिः तेलुगुलिपिः तामिऴलिपिः ग्रन्थलिपिः यव-द्वीपलिपि: कम्बोजलिपिः कन्नडलिपिः नेपाललिपिः मलयाळलिपिः गुजरातीलिपिः इत्यादय: ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिसु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपि एव प्रायः उपयुज्यते।
अक्षराणां समूहः अक्षरमाला इति उच्यते।
संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। स्वयं राजन्ते इति स्वराः।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
ॐ |
ह्रस्वस्वराः | दीर्घस्वराः | |
---|---|---|
अ | आ | |
इ | ई | |
उ | ऊ | |
ऋ | ॠ | |
ऌ | ॡ | |
ऎ | ए | ऐ |
ऒ | ओ | औ |
अनुस्वारः | विसर्गः |
---|---|
अं | अः |
खराः | अतिखराः | मृदवः | घोषाः | अनुनासिकाः | |
---|---|---|---|---|---|
कवर्गः | क | ख | ग | घ | ङ |
चवर्गः | च | छ | ज | झ | ञ |
टवर्गः | ट | ठ | ड | ढ | ण |
तवर्गः | त | थ | द | ध | न |
पवर्गः | प | फ | ब | भ | म |
मध्यमाः (अन्तस्थाः) |
य | र | ल | ळ | व |
---|
ऊष्माणः | श | ष | स | ह |
---|
ऌकारस्य प्रयोगः अत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे अच् शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि, व्यञ्जनेषु च अन्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
ह्रस्वस्वराः
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
दीर्घस्वराः
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
प्लुतस्वराः
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्।
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
अनुस्वारः
अर्ध-"म"कारसदृशाध्वनिरनुस्वारः। अं विसर्गः अः विसर्गापरपर्यायो विसर्जनीयः। अर्ध-"ह"कारसदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
चन्द्रविन्दु
अर्ध-"न"कारसदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
कार्त्स्न्यं इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ताः, ६. नासिका, ७. ओष्ठौ, ५. तालुः।
तद्यथा –
वर्णस्य उत्पत्तिस्थानम् | वर्णानां संज्ञा | स्वराः | व्यञ्जनानि | अयोगवाहौ |
---|---|---|---|---|
कण्ठ | कण्ठ्यः | अ आ | क् ख् ग् घ् ङ् ह् | अः (विसर्गः) |
तालुः | तालव्यः | इ ई | च् छ् ज् झ् ञ् य् श् | |
मूर्धा | मूर्धन्यः | ऋ ॠ | ट् ठ् ड् ढ् ण् र् ष् ळ् | |
दन्ताः | दन्त्यः | ऌ ॡ | त् थ् द् ध् न् ल् स् | |
ओष्ठौ | ओष्ठ्यः | उ ऊ | प् फ् ब् भ् म् | |
कण्ठतालु | कण्ठतालव्यः | ऐ ए ऐ | ||
कण्ठोष्ठम् | कण्ठोष्ठ्यः | ओ ओ औ | ||
दन्तोष्ठम् | दन्तोष्ठ्यः | व | ||
नासिका | नासिक्यः | अं (अनुस्वारः)|अँ (चन्द्रविन्दुः) |
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। मलयाळम्, तेलुगु, कन्नड इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
संस्कृतशब्दः | हिन्दी | मराठी | मलयाळम् | कन्नड | तेलुगु | ग्रीक | लेतिन | आङ्गलिक | जर्मन | बाङ्गला | फ़ारसी |
---|---|---|---|---|---|---|---|---|---|---|---|
मातृ | माता | माता | माताव् | माता/मातृ | मातेर | मोथर् | मुटेर | माता, मातृ | मादिर/मादर | ||
पितृ | पिता | पिता | पिताव् | पिता/पितृ/तन्ड्री | पातेर | फ़ाथर् | फ़ाटेर | पिता, पितृ | पिदर | ||
दुहितृ | दोहता | दाह्तर् | दौहित्रो | ||||||||
भ्रातृ | भाई, भ्राता | भाऊ | भ्राताव् | भ्राता | ब्रदर् | ब्रुडेर | भ्राता, भाई | बिरादर | |||
पत्तनम् | पट्टन, पटना | पट्टणम् | पट्टणम् | ||||||||
वैदूर्यम् | लहसुनिया | वैडूर्यम् | वैडूर्यम् | वैडूर्यम् | |||||||
सप्तन् | सात् | सात | सप्तम् | सप्त | सेप्तम् | सेव्हेन् | ज़ीबेन | ||||
अष्टौ | आठ् | आठ | एट्ट् | अष्ट | होक्तो | ओक्तो | ऐय्ट् | आख़्ट | |||
नवन् | नौ | नऊ | नवम् | नवम/नव | हेणेअ | नोवेम् | नायन् | नोएन | |||
द्वारम् | द्वार | दार | द्वारम् | द्वारम् | दोर् | टोर | |||||
नालिकेरः | नारियल् | नारळ | नाळिकेरम् | नारिकेलम | कोकोस्नुस्स |
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। न वर्तते अत्र अन्यानि विरामचिह्नानि केवलं दण्डचिह्नमेव।' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।
गत | गतक | गति | गतिक | गत्वन् |
गत्वर | गन्तव्य | गन्तृ | गन्त्रिका | गम |
गमक | गमथ | गमन | गमनिका | गमनीय |
गमयितृ | गमित | गमिन् | गमिष्ठ | गमिष्णु |
गम्य | गम्यमान | गामिक | गामुक | गामिन् |
अतिगम् | अतिग | अधिगम् | अधिगत | अधिगन्तृ |
अधिगम | अधिगमन | अधिगम्य | अधिगमनीय | अनुगम् |
अनुग | अनुगत | अनुगति | अनुगतिक | अनुगन्तव्य |
अनुगम | अनुगमन | अनुगम्य | अनुगामिन् | अनुगामुक |
अपगम् | अपग | अपगत | अपगम | अपगमन |
अपिगम् | अभिगम् | अभिगत | अभिगन्तृ | अभिगम |
अभिगमन | अभिगम्य | अभिगामिन् | अवगम् | अवगत |
अवगति | अवगन्तव्य | अवगम | अवगमक | अवगमयितृ |
अवगम्य | आगम् | आगत | आगति | आगन्तव्य |
आगन्तु | आगन्तुक | आगम | आगमन | आगामिन् |
आगमिष्ठ | आगमिक | आगमिन् | आगमुक | आजिगमिषु |
उद्गम् | उद्गा | उद्गति | उद्गम | उपगम् |
उपग | उपगत | उपगति | दुर्गम | निगम |
निगमन | निर्गम | निर्गत | निर्गम् | निर्गमन |
परागम् | परागत | परागन्तृ | परागम | परिगम् |
परिग | परिगत | परिगन्तव्य | परिगम | परिगमन |
परिगमिन् | परिगम्य | प्रगम् | प्रगम | प्रगत |
प्रगमन | प्रगमनीय | प्रगामन | प्रगामिन् | प्रगे |
प्रतिगम् | प्रतिगत | प्रतिगति | प्रतिगमन | विगम् |
विगत | सङ्गम् | सङ्ग | सङ्गत | सङ्गम |
सङ्गति | सङ्गथ | सङ्गमन | सङ्गमक | सङ्गमनीय |
सङ्गमिन् | सङ्गिन् | सुगम |
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् १८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति। अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति। एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्- अ) ===भाषाशास्त्रदृष्ट्या – === १ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्। २ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् – १ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा। २ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्। भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्। भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ? वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। ३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्। पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् । आ) व्याकरणदृष्ट्या संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् - यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम् एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म। निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य। यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्। पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्। अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति। इ) === वाङ्मयदृष्ट्या === जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्। वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते। ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव। चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति। रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे – राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्। केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।
===ई ऐतिहासिकदृष्ट्या – ===
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
अतः अस्य वादस्य निर्णय: एवमेव यत्-
1 संस्कृतम् उक्तिभाषा आसीत्।
2 शिक्षिता: जना: तया भाषया वदन्ति स्म।
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।